60 Hours 

Code: VSF003

Credits: 3

L-T-P Ratio: 2-0-1

प्रक्रमस्य रचयिता – डॉ. तिलकः राव

  • अध्येतृभ्यः संस्कृतभाषया विरचितशास्त्रीयग्रन्थानां पारिभाषिकोपयुक्तीनां परिचयः, ततः स्वयं शास्त्रग्रन्थपठनाय प्रेरणा च
  • पूर्वसिद्धता – VSF002 Sanskrit-1 इति प्रक्रमस्य पूर्तिः

Detailed Syllabus

विषयः – विभक्तीनां प्रयोगाः

उद्देश्यम् – कारकविभक्तीनां सम्यक्तया अवगमनम्, उपपदविभक्तीनां ज्ञानम्, सति-सप्तमीप्रयोगस्य अवगमनं, विशेष्यविशेषणयोः सम्बन्धः

घण्टाः – 10

  1. विना, अन्तरेण, दूरे इत्यादीनां प्रयोगे विभक्तयः
  2. सति-सप्तमी
  3. विशेषण-विशेष्यभावः (यल्लिङ्गं यद्ववचनं या च विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्य)
विषयः – समासः

उद्देश्यम् – समस्तपदस्य अर्थावधारणसामर्थ्यवर्धनम्

घण्टाः – 6

  1. समासनिर्णयक्रमः
  2. समासस्य भेदाः (तत्पुरुषः, द्वन्द्वः, बहुव्रीहिः, अव्ययीभावः)
  3. दीर्घवाक्येषु विग्रहः
विषयः – शास्त्रे उपयुज्यमानानां कृत्तद्धितप्रत्ययानां परिचयः

उद्देश्यम् – शब्दकोशानाम् अनवलम्बनेन प्रसिद्धपदानाम् अर्थनिर्णयः, धातुपाठस्य साहाय्येन स्वतन्त्रतया अर्थग्रहणम्

घण्टाः – 10

  1. केचन प्रसिद्धाः कृत्प्रत्ययाः – ण्वुल्, ल्युट्, अनीयर्, क्त, क्तवतु, तव्यत्, तुमुन्, तृच्, क्त्वा, ल्यप्, यत्, ण्यत्, क्यप्, घञ्, अच्, अप्, क्तिन्, अ, युच्, उ, शतृ, शानच्
  2. धातुपाठस्य उपयोगद्वारा प्रत्ययानां साहाय्येन अर्थावधारणक्रमबोधनम्
  3. केचन प्रसिद्धाः तद्धितप्रत्ययाः – वत्प्रत्ययः, भावर्थकप्रत्ययाः, पूरणार्थकप्रत्ययाः, मत्वर्थकप्रत्ययाः, तसिलादयः (थाल्, दा), च्वि, अतिशयार्थकाः
  4. प्रत्ययान्तानां स्त्रीलिङ्गरूपाणि
  5. व्याकरणे प्रत्ययानां योजनस्य यः क्रमः तस्य परिचयः
विषयः – वाक्यावगमप्रकारः

उद्देश्यम् – शास्त्रीयवाक्यानाम् अर्थस्य सम्यक्तया ग्रहणम्

घण्टाः – 7

  1. प्रयोगपरिवर्तनम्
  2. आकाङ्क्षापद्धतिः
  3. अन्वयक्रमः
  4. यत्तदोर्नित्यसम्बन्धः
  5. तात्पर्यनिर्णयक्रमः
विषयः – शास्त्रीयविषयोपस्थापनक्रमः

उद्देश्यम् – भाष्यादिव्याख्यानग्रन्थानां सुलभतया अवगमनम्

घण्टाः –  6

  1. उद्देशः लक्षणं परीक्षा
  2. पञ्चभिः अवयवैः निरूपणम्
  3. पूर्वोपक्षोपस्थापनम् (उत्थापिताकाङ्क्षा) / प्रश्नस्य उपस्थापनम् (उत्थिताकाङ्क्षा) –
    1. ननु………, अत आह
    2. न च…….. वाच्यम्
  • केचित्/केचित्तु/अपरे/परे/अन्ये
  1. स्यादेतत्
  2. यद्यप्युक्तं ……तन्न
  3. यद्यप्याहुः
  • यत्तु……आहुः
  1. पक्षान्तरोपस्थापनक्रमः
    1. यद्वा
  2. सिद्धान्तोपस्थापनक्रमः
    1. एवञ्च
    2. इति भावः
  • इत्यर्थः
  1. वस्तुतस्तु…. आहुः
  2. फलति/फलितोऽर्थः
  3. इति न्याय्यम्
  • तस्मात्
  • इति दिक्
  1. हेतूपस्थापनप्रकारः
    1. हि
    2. अत एव
  • पञ्चमीप्रयोगः
  1. किञ्च (हेत्वन्तरयोजनम्)
विषयः – पारिभाषिकपदानां परिचयः

उद्देश्यम् – तत्तच्छात्रीयपारिभाषिकपदानां ज्ञानम्

घण्टाः –  15

  1. नव्यन्यायभाषाप्रदीपः
  2. तर्कसङ्ग्रहस्य उद्देशग्रन्थः (न्यायवेदान्तयोः पदार्थज्ञानार्थम्)
  3. व्याकरणे संज्ञाः/सूत्रभेदः
  4. गणितज्योतिषयोः पारिभाषिकपदानि
  5. आयुर्वेदस्य पारिभाषिकपदानि
  6. साङ्ख्ययोगयोः पारिभाषिकपदानि
  7. अर्थशास्त्रस्य पारिभाषिकपदानि
  8. वेदान्तपारिभाषिकपदानि
विषयः – शास्त्रग्रन्थानां पठनाभ्यासः

उद्देश्यम् – शास्त्रग्रन्थानां स्वाध्यायक्रमपरिज्ञानम्

घण्टाः –  6

अर्थशास्त्रादिग्रन्थानां चितभागस्य पठनाभ्यासः

विषयः – सुभाषितादीनाम् अवगमनम्

उद्देश्यम् – सरलकथानां पठनाभ्यासः, सरलश्लोकानाम् अवगमनं, पदानाम् अन्वयः

घण्टाः –  5

  1. चिताः कथाः।
  2. चितानि सुभाषितानि

उपयुक्तपुस्तकानि

  1. प्रथमदीक्षा, राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली
  2. अभ्यासपुस्तकम्, विश्वासः, संस्कृतभारती, बेङ्गलूरु
  3. अभ्यासदर्शिनी, जनार्दन हेगडे, संस्कृतभारती, बेङ्गलूरु
  4. हिन्दीसंस्कृतशब्दकोषः, श्रीप्रकाशपाण्डेयः, संस्कृतभारती, नवदेहली
  5. संस्कृतव्यवहारसाहस्री, संस्कृतभारती, बेङ्गलूरु
X